Saturday, 21 September 2013

मुंबई - महाराष्ट्रराज्यम

महाराष्ट्रराज्यम्


महाराष्ट्रराज्यम् (Maharashtra) भारतस्‍य पश्‍चिमे विद्यमानं किञ्चन राज्यम् अस्‍ति । मुम्बई इति महाराष्ट्रराज्यस्य राजधानी । अन्यानि नगराणि नागपुरं, पुणे, सोलापुरम् इत्यादयः।भारतस्य ९.८४% क्षेत्रफलं महाराष्ट्रराज्ये अस्ति । महाराष्ट्रस्य जनसन्ख्या ९,६७,५२,२४७ मिता । जनसंख्यायाः घनत्वम् ३१४.४२ जनाः प्रति वर्ग किमी. इत्यस्ति । महाराष्ट्रम् अतीव धनसम्पन्नम् राज्यम् अस्ति । अयं प्रान्तः भारतस्य सकलगृहोत्पादने १३.२% , औद्योगिक उत्पादने च १५% च योगदानं करोति । क्षेत्रफलस्य दृष्टया महाराष्ट्रं भारतस्य तृतीयं तथा लोकसंख्या विषये च द्वितीयं राज्यं भवति । भारतस्य विकसितराज्यम् अस्ति महाराष्ट्रम् । राज्यस्य पश्चिमे अरबी समुद्रतट: वर्तते । मुम्बई महाराष्ट्रस्य राजधानी, नागपुरं तु महाराष्ट्रस्य उपराजधानी ।

नाम्नः उगम:
अशोकस्य काले "राष्ट्रिक" अनन्तरं "महाराष्ट्र्" इति नामना प्रसिद्धः अद्भुत् एतद् राज्यं- ह्युएन-त्सांगादि पथिकादिनां मतम् । राष्ट्रस्य 'महाराष्ट्र' इति नाम प्राकृतभाषायाम् 'महाराष्ट्री' शब्दात् भवेत् इति मन्ये । केषांचित् मते एतत् राज्यस्य नाम "महाकांतार" (महान् वने- दंडकारण्य) इति शब्दस्य अपभ्रंशः वर्तते ।

इतिहासः
भारतीयस्वातंत्र्यसंग्रामे महाराष्ट्रराज्यस्य मुम्बईनगर्याः च योगदानं अपूर्वमासीत्। भारतीय-काँग्रेस- इत्यस्य सङ्घटनस्य प्रथमं सम्मेलनं अत्रैव अभवत्। तथा हि पूजनीयेनमहात्मागान्धीमहोदयेन एकसहस्र-नवशतद्विचत्वारिंशत्तमे(१९२४) ख्रिस्ताब्दे ऑगस्ट-मासस्य नवम्यां तिथौ अत्रत्यगोवालियाटॅंकतः 'मुच्यतां भारतवर्षम्' इति घोषणा दत्ता आसीत् । तदा समग्र:अपि देशः रोमाञ्चितः अभवत् । स्वातंत्र्यपूर्वकालादारभ्य समाजसुधारणास्वपि सकलं महाराष्ट्रराज्यम् अग्रेसरमासीत् । यतः महात्मा फुले, राजर्षिशाहूछत्रपतिः , भारतरत्नं डॉ.आम्बेडकरमहोदयसदृशा: अग्रगण्या: समाजोद्धारका: महाराष्ट्रराज्यमिदं अलंकृतवन्तः । लोकमान्यतिलकसदृशा अभूतपूर्वा राष्ट्रियनेतारः अत्र जन्म प्राप्तवन्त: सन्ति । शून्यषण्णवैकमिते मे मासस्य प्रथमदिनाङ्के महाराष्ट्रराज्यं निर्मितम् । ततः प्रभृति:राज्येनानेन प्रगतिपथे एव पदं कृतम् ।
State of Maharashtra



संयुक्तमहाराष्ट्रान्दोलनम्

महाराष्ट्रराज्यस्थापना ऐतिहासिक: महत्वपूर्णविषय: । संयुक्तमहाराष्ट्रान्दोलनं महाराष्ट्रराज्यनिर्माणस्य कारणम् । १९५० त: १९६० पर्यन्तम् आन्दोलनम् अभूत् । १९६० पर्यन्तं पश्चिममहाराष्ट्रविभाग: 'मुम्बईराज्ये', मराठवाडाविभागस्य ५ उपमण्डलानि हैदराबाद्संस्थाने, विदर्भविभागस्य ८ मण्डलानि मध्यप्रान्ते (इदानीन्तनमध्यप्रदेशे) समाविष्टानि आसन् । यद्यपि केन्द्रसर्वकारेण 'भाषानुसारेण राज्यरचना भवेत्' इति निर्णय: १९५० तमे वर्षे एव कृत:, तथापि भाषानुसारं विभाजनं न जातमत्र । अत: १० वर्षाणि यावत् आन्दोलनं कृतं, महत्परिश्रमेण, बहूनां जनानां बलिदानेन च १ 'मे' १९६० दिने महाराष्ट्रराज्यस्य स्थापना जाता । अस्मिन् आन्दोलने मध्यमवर्गीयजना:, कर्मकरजना:, कृषका:, विचारवन्त: जना: भागं गृहीतवन्त: । अतः इदम् आन्दोलनम् अभिव्यापकम् आसीत् ।
भूगोलम्
महाराष्ट्रस्य पश्चिमे सिन्धुसागरः, उत्तरे दादरा ,नगर हवेली, मध्यप्रदेशः च, तस्य पूर्वदिशायां छत्तीसगढ़ दक्षिणपूर्वदिशायाम् आन्ध्रप्रदेशः तथा दक्षिणदिशायां कर्णाटकं गोवा च इति राज्यानि सन्ति । महाराष्ट्रस्य क्षेत्रफलं ३,०७,७३१ वर्ग किमी. अस्ति. भारतस्य ९.८४% क्षेत्रफलं महाराष्ट्रराज्ये अस्ति ।
सह्याद्री पर्वतश्रेणिः (वा पश्चिमघट्टाः) महाराष्ट्रस्य तीरस्य समान्तरम् अस्ति । तस्याः पश्चिमे कोङ्कण-तटप्रदेश: वर्तते । पर्वतमालायाः पूर्वदिशायां दक्खन अधित्यका: सन्ति । एष: बह्वीनां नदीनां स्रोतःअस्ति । महाराष्ट्रे ३५ जनपदाः. अपि च षड्विभागाः सन्ति. औरङ्गाबाद:, अमरावती, कोङ्कणं, नागपुरं, नाशिकं, पुणे च एते षड्विभागाः । भूगोलस्य, इतिहासस्य च अनुसारं महाराष्ट्रे पञ्चविभागाः. विदर्भ: (नागपुरम् अमरावती), मराठवाडा (औरङ्गाबाद), खान्देश: उत्तरमहाराष्ट्रं(नाशिक), पश्चिम महाराष्ट्रं (पुणे), कोंकण च ते पञ्चविभागाः.

मुम्बई 


Mumbai - Hotel Tajmahal, Colaba 
मुम्बई (Mumbai) भारतस्‍य महाराष्ट्रराज्यस्‍य राजधानी । एतद् नगरं भारतदेशस्य विशालं नगरम् । भारते लोकसंख्यया प्रथमस्थाने, पृथिव्यां द्वितीयस्थाने च वर्तते एतन्नगरम् । भारतस्य पश्चिमे समुद्रतटे एतद् नगरं स्थितम् । इदं मुम्बयी महानगरं गगनस्पर्शिभवनैः देशे एव अद्वितीयम् अस्ति । चलचित्रनिर्माणस्य आधारस्थानं बालिवुड् इति प्रसिद्धम् अस्ति । मुम्बादेव्याः देवालयः अत्र अस्ति । अतः नगरस्य मुम्बापुरी इति नाम आसीत् । आङ्गलानां प्रशासनकाले बाम्बे बोम्बायी बम्बै इत्यादिभिः नामभिः प्रख्यातम् अभवत् । इदानीं मुम्बयी इति अधिकृततया नाम दत्तम् अस्ति । मुम्बयीनगरे अनेकानि प्रेक्षणीयस्थलानि सन्ति ।

मुम्बयीनगरस्य प्रेक्षणीयस्थानानि

गेट्वे आफ् इण्डिया

भारतस्य महाद्वारम् इत्यर्थः अस्य भवनस्य । पूर्वं विदेशेभ्यः जनाः नौकायानेन अत्रैव आगच्छन्ति स्म । विशेषतः आङ्ग्लाः बोम्बायीनगरम् आगत्य भारतदेशे कार्यप्रवृत्ताः भवन्ति स्म । अतः एव एतत् स्मारकम् अतीव विशिष्टं सञ्जातम् अस्ति ।
पीतवर्णयुक्तैः बेसाल्ट्-शिलाभिः एतत् महाद्वारम् अपोलोनौकानिस्थानसमीपे निर्मितम् अस्ति । द्वारं परितः विशालप्राङ्गणम् अस्ति । समीपे छत्रपतिशिवाजीमहाराजस्य स्वामिविवेकानन्दस्य च विग्रहाः सन्ति । सागरतीरसमीपे अस्मिन् स्थले प्रातः सायं च विहाराय बहवः जनाः आगच्छन्ति ।

छत्रपतिशिवाजिमहाराजम्यूसियम्

पूर्वम् एतत् प्रिन्सवेल्स् म्यूसियम् इति ख्यातम् आसीत् । मुम्बयीनगरे कोलाबाप्रदेशे एषः वस्तुसङ्ग्रहालयः अस्ति । क्रिस्ताब्दे १९०५ तमे वर्षे पञ्चमः जार्जः भारतम् आगतवान् । एतत्स्मरणार्थम् इण्डो-सार्सेनिकशैल्या विशिष्टं भवनम् एतत् निर्मितम् अस्ति । अत्र वर्णचित्राणि एलिफेण्टा गुहागतवास्तुकृतयः प्राच्यवस्तूनि च सङ्गृहीतानि सन्ति । गौतमबुद्धस्य अपूर्वः विग्रहः अत्र अस्ति । अत्र आवरणे ’जहाङ्गीर आर्ट ग्यालरि' नामकः कलासङ्ग्रहालयः अस्ति । अत्र कलाप्रदर्शनानि भवन्ति ।

फ्लोरा फौण्टन्

हुतात्मा चौक् इत्यपि अस्य अपरम् नाम । मुम्बयीनगरे एकं जनभरितं वाणिज्यकेन्द्रस्थानम् एतत् । क्रिस्ताब्दे १८६२ तः १८६७ पर्यन्तं बोम्बायीप्रान्तस्य अधिकारी सर् बार्टल् फ्रियर अत्र प्रशासनं कृतवान् । तस्य स्मरणार्थम् अस्य निर्माणम् अभवत् । समीपे सेण्ट् थामस् केथेड्राल् अस्ति । फ्लोरामूर्तेः वैभवः दर्शनीयः अस्ति ।

तारापोरवाला आक्वेरियम्

एषः कश्चन मत्स्यागारः । मुम्बयीनगरे मेरिन् ड्रैव सागरतीरसमीपे एषः विशिष्टः मत्स्यागारः अस्ति । अत्र विविधजातीयाः वर्णमयाः मत्स्याः सङ्गृहीताः सन्ति । अत्र मीनाः उत्तमतया संस्थापिताः सन्ति ।

मलबारहिल्

मलबारहिल् पर्वतप्रदेशः मुम्बयीनगरसमीपे अस्ति । शीतलः अय प्रदेशः मुम्बयीनगरवासिनां विहारस्थलमस्ति । वाल्केश्वरमहालक्ष्मीदेवालयौ अपि अत्र एव स्तः । मलबारपर्वताग्रे ‘ह्याङ्गिङ्ग गार्डन्’ क्रिस्ताब्दे १८८१ तमे वर्षे निर्मितम् । वालकेश्वरं श्रीरामः एव स्थापितवान् इति जनानाम् अभिप्रायः अस्ति । जलाशयस्य अग्रतः उद्यानं निर्मितम् अस्ति । अस्य फिरोजषा मेहता उद्यानमिति च कथयन्ति । अत्र उद्यानवने सस्यानि प्राणिनाम् आकारैः कर्तितानि सन्ति । अधः कमलानेहरु उद्यानमप्यस्ति । एतदुद्यानं क्रिस्ताब्दे १९५२ तमे वर्षे निर्मितम् । रात्रौ मलबारहिलतः नगरदर्शनम् अतीव सुन्दरं भवति ।

विक्टोरिया गार्डन्

मुम्बयीमहानगरे स्थितं विक्टोरिया गार्डन् वीरमाता जीजाबायी भोसले उद्यानवनमिति च प्रसिद्धम् अस्ति । अत्र सुन्दरः मृगालयः, आल्बर्ट म्यूसियं च आकर्षकाणि सन्ति । वस्तुसङ्ग्रहालयस्य बाह्यप्रदेशे एलिफेण्टाद्वीपतः आनीतं बृहत्शिलागजं स्थापितवन्तः सन्ति। डा अनिबेसेन्टमार्गसमीपे नेहरुप्लानिटोरियम् आकर्षकम् अस्ति ।

मुम्बयीनगरस्य सागरतीराणि

मुम्बयीनगरं पश्चिमसागरतीरे अस्ति । अरब्बीसागरस्य दर्शनम् अत्र बहुसरलम् । सागरतीरेषु सामान्यतः वालुकाः सन्ति । जनाः विहाराय अत्र आगच्छन्ति । राष्ट्रियनायकानां महापुरुषाणां भाषणकार्यक्रमाः अत्र भवन्ति । चौपाटी सागरतीरं वक्राकारकम् अतीवाकर्षकम् अस्ति । सायङ्काले अत्र बहुजनाः भवन्ति । जुहुबीच् अपि अतिप्रसिद्धम् अस्ति । धक्काप्रदेशे नौकानिस्थानम् अस्ति । विदेशेभ्यः अत्र नौकाः आगच्छन्ति ।

मुम्बई न केवलं महाराष्ट्रराज्यस्य राजधानी, अपि तु भारतदेशस्य वित्तीयमनोरञ्जनस्य राजधानी अपि वर्तते। भारतीय आरक्षितः अधिकोषः, मुम्बई शेर बाजार, राष्ट्रीय शेर बाजार इत्येतादृशाः नैके महत्वपूर्णाः संस्थाः अत्र सन्ति । अपि अत्र अनेकेषां सङ्घटनानां मुख्यकर्यालयाः सन्ति। मुम्बईनगरं हिन्दीभाषायां-चलचित्रस्यापि केन्द्रं। संजयगांधीराष्ट्रीयोद्यानं, लवणक्षेत्राणि, मैंग्रोववनानि आदि प्राकृतिकस्थलानि एतस्य नगरस्य समीपे वर्तते।

Mumbai                                                                                             - Reporter
21/09/2013                                                                                          Magazine World of UGI

©Magazine World of UGI 2013
All rights are reserved!
Note: Any member of MWUGI & Magazine World of UGI will not be responsibile for any subject regarding this blog!



No comments:

Post a Comment